# title: बुद्धिमान् शिष्यः
# language: Sanskrit
#
काशीनगरे एकः पण्डितः अस्ति । पण्डितसमीपम् एकः शिष्यः आगच्छति । शिष्यः वदति - "आचार्य!
विद्याभ्यासार्थम् आगतः ।" पण्डितः शिष्यबुद्धिपरीक्षार्थं पृच्छति - "वत्स, देवः कुत्र अस्ति?" शिष्यः वदति -
'गुरो! देवः कुत्र नास्ति? कृपया भवान् एव समाधानं वदतु ।" सन्तुष्टः गुरुः वदति - "दैवः सर्वत्र अस्ति । देवः
सर्वव्यापी । त्वं बुद्धिमान ।अतः विद्याभ्यासार्थम् अत्रैव वस।"
